|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.52. अध्यायः 052
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
उत्तरदिगभिमानिदेवतया स्वीयप्रार्थनायाः स्त्रीचापलप्रदर्शनाद्यर्थकत्वकथनपूर्वकमष्टावक्रस्य धर्मोपदेशेन स्वगृहम्प्रति प्रेषणम्॥ 1 ॥ अष्टावक्रेण वदान्यकन्यापाणिग्रहणेन स्वाश्रमे सुखनिवासः॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
न बिभेति कथं सा स्त्री शापाच्च परमद्युते।
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे॥ 13-52-1(83604)
भीष्म उवाच। 13-52-2x(6891)
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया॥ 13-52-2(83605)
स्त्र्युवाच। 13-52-3x(6892)
द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम॥ 13-52-3(83606)
जिज्ञासेयं प्रयुक्ता मे स्थैर्यं कर्तुं तवानघ।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम॥ 13-52-4(83607)
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः॥ 13-52-5(83608)
`अविश्वासो न व्यसनी नातिसक्तोऽप्रवासकः।
विद्वान्सुशीलः पुरुषः सदारः सुखमश्नुते॥' 13-52-6(83609)
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः॥ 13-52-7(83610)
सत्वं येन च कार्येण सम्प्राप्तो भगवानिह।
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभः॥ 13-52-8(83611)
प्रेषितश्चोपदेशाय तच्च सर्वं श्रुतं त्वया॥ 13-52-9(83612)
`नितान्तं स्त्री भोगपरा प्रियवादाप्रवासनात्।
रक्ष्यते चाकुचेलाद्यैरप्रसङ्गानुवर्तनैः॥ 13-52-10(83613)
अपर्वस्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत्।
रात्रौ च नातिनियमो न वै ह्यनियमो भवेत्॥'॥ 13-52-11(83614)
क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति॥ 13-52-12(83615)
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम्।
अनतिक्रमणीया साकृत्स्नैर्लोकैस्त्रिभिः सदा॥ 13-52-13(83616)
गच्छस्व कृतकृत्यस्त्वं किं वाऽन्यच्छ्रोतुमिच्छसि।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्॥ 13-52-14(83617)
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ।
तस्य सम्माननार्थं मे त्वयि वाक्यं प्रभाषितम्॥ 13-52-15(83618)
भीष्म उवाच। 13-52-16x(6893)
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्॥ 13-52-16(83619)
गृहमागत्य विश्रान्तः स्वजनं परिपृच्छ्य च।
अभ्यागच्छच्च तं विप्रं न्यायतः कुरुनन्दन॥ 13-52-17(83620)
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना॥ 13-52-18(83621)
भवताऽहमनुज्ञातः प्रास्थितो गन्धमादनम्।
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत्॥ 13-52-19(83622)
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः।
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो॥ 13-52-20(83623)
तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे।
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान्॥ 13-52-21(83624)
भीष्म उवाच। 13-52-22x(6894)
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा॥ 13-52-22(83625)
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्।
उवास मुदितस्तत्र श्वाश्रमे विगतज्वरः॥ ॥ 13-52-23(83626)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणिः द्विपञ्चाशोऽध्यायः॥ 52 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-52-2 विकुरुषेऽन्यथान्यथा करोषि। ब्राह्मणकाम्यया ब्राह्मणमानलिप्सया॥ 7-52-3 द्यावापृथिव्योः दिवि पृथिव्यां च यत्र स्थीयते तत्र एषा काम्या स्त्रीपुंसयोः अन्योन्याभिलाषरूपा इच्छास्तीत्यर्थः॥ 7-52-4 मे मया॥ 7-52-8 तत्कार्यं ज्ञापयामीति शेषः। 7-52-13 सा काम्याऽनतिक्रमणीया॥ 7-52-15 ऋषिणा वदान्येन॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|